|| श्रीगणपतिस्तोत्रम् || वसुधा चिवटे !
ॐ
|| श्रीगणेशाय नम: || नारद उवाच ||
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ||
भक्तावासं स्मरेन्नित्यमायु: ( आयुष्य ) कामार्थसिद्धये|| १ ||
प्रथम वर्कतुण्ड च एकदंतं व्दितीयकम् ||
तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम् || २ ||
लंबोदरं पंचमं च षष्ठं विकटमेव च |
सप्तमं विघ्नराजेन्द्रं धुर्मवर्णं तथाष्टमम् || ३ ||
नवमं भालचंद्रं च दशमं तु विनायकम् ||
एकादशं गणपतिं व्दादशं तु गजाननम् || ४ ||
व्दादशैतानि नामानि त्रिंसंध्यं य: पठेन्नर: |
ना च विघ्नभयंतस्य सर्वसिध्दिकरं प्रभो ||५ ||
विद्दार्थी लभते विद्दां धनार्थी लभते धनम् ||
पुत्रार्थी लभते पुत्रान्मोक्षर्थी लभते गतिम् ||६ ||
जपेnदणपतिस्तोत्रं षड्भिर्मासै: फलं लभेत् ||
संवत्सरेण सिद्धिं च लभते नात्र संशय: || ७ ||
अष्टभ्यो ब्राह्मणेभ्यश्र्च लिखित्वा य: समर्पयेत् ||
तस्य विद्दा भवेत्सर्वा गणेशस्य प्रसादत: || ८ ||
इति श्रीनारदपुराणे संकष्टनाशनं नाम –
श्रीगणपतिस्तोत्रं संपूर्णम् ||
वसुधा चिवटे !