आपले स्वागत आहे!

Archive for ऑक्टोबर 12, 2011

श्रीविष्णुसहस्त्रनामस्तोत्रम्

अथ श्रीविष्णुसहस्त्रनामस्तोत्रम्

यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् |
विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ||
नम: समस्तभूतानामादिभूताय भूभृते |
अनेकरूपरूपाय विष्णवे प्रभविष्णवे ||

वैशम्पायन उवाच

श्रुत्वा धर्मानशेषेण पावनानि च सर्वश: |
युधिष्ठिर: शान्तनवं पुनरेवाभ्यभाषत ||१||

युधिष्ठिर उवाच

किमेकं दैवतं लोके किं वाप्येकं परायणम् |
स्तुवन्त: कं कमर्चन्त: प्राप्नयुर्मानवा: शुभम् ||२||
को धर्म: सर्वधार्माणां भवत: परमो मत: |
किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् ||३||

भीष्म उवाच

जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् |
स्तुवन्नामसहस्त्रेण पुरुष: सततोत्थित: ||४|
तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् |
ध्यायन्स्तुवन्नमस्यंश्च यजमानस्तमेव च ||५||

अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् |
लोकाध्यक्षं स्तुवन्नित्यं सर्वदु:खातिगो भवेत् ||६||
ब्रह्मण्यं सर्वधर्मज्ञम् लोकानां कीर्तिवर्धनम् |
लोकनाथं महभ्दुतं सर्वभुतभवोभ्दवम् ||७||
एष मे सर्वधर्माणां धर्मो S धिकतमो मत:|
यभ्दक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नर: सदा ||८||
परमं यो महत्तेज: परमं यो महत्तप:|
परमं यो महद्ब्रह्म परमं य: परायणम् ||९||
पवित्राणां पवित्रं यो मड्ग.लानां च म डग.ल म् |
दैवतं देवतानां च भूतानां यो S व्यय: पिता ||१०||